|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.26. अध्यायः 026
Mahabharata - Strii Parva - Chapter Topics
शोकाद्भुवि पतिताया गान्धार्याः कृष्णेनाश्वासनम्॥ 1 ॥ युधिष्ठिराज्ञया विदुरसञ्जयादिभिर्मृतानां दाहक्रियाकरणम्॥ 2 ॥

Mahabharata - Strii Parva - Chapter Text
श्रीभगवानुवाच। 11-26-0x(5364)(65567)
उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः।
तवैव ह्यपराधेन कुरवो निधनं गताः॥ 11-26-1(65568)
यत्त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम्।
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे॥ 11-26-2(65569)
निष्ठुरं वैरपुरुषं वृद्धानां शासनातिगम्।
कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि॥ 11-26-3(65570)
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते॥ 11-26-4(65571)
तपोर्थीयं ब्राह्मणी धत्त गर्भं
गौर्वोढारं धावितारं तुरङ्गी।
शूद्रा दासं पशुपालं च वैश्या
वधार्थीयं त्वद्विधा राजपुत्री॥ 11-26-5(65572)
वैशम्पायन उवाच। 11-26-6x(5365)
तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम्।
तूष्णीं बभूव गान्धारी शोकव्याकुललोचना॥ 11-26-6(65573)
धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः।
पर्यपृच्छत धर्मज्ञो धर्मराजं युधिष्ठिरम्॥ 11-26-7(65574)
जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव।
हतानां यदि जानीषे परिमाणं वदस्वं मे॥ 11-26-8(65575)
युधिष्ठिर उवाच। 11-26-9x(5366)
दशायुतसहस्राणि सहस्राणि च विंशतिः।
कोट्यः षष्टिश्च षट् चैव ह्यस्मिन्राजन्मृधे हताः॥ 11-26-9(65576)
आलक्षाणां च वीराणां सहस्राणि चतुर्दश।
दश चान्यानि राजेन्द्र शतं षष्टिश्च भारत॥ 11-26-10(65577)
धृतराष्ट्र उवाच। 11-26-11x(5367)
युधिष्ठिरगतिं कां ते गताः पुरुषसत्तम।
आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः॥ 11-26-11(65578)
युधिष्ठिर उवाच। 11-26-12x(5368)
यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे।
देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः॥ 11-26-12(65579)
ये त्वहृष्टेन मनसा मर्तव्यमिति भारत।
युध्यमाना हताः सङ्ख्ये गन्धर्वैः सह सङ्गताः॥ 11-26-13(65580)
ये च सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः।
शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति॥ 11-26-14(65581)
पात्यमानाः परैर्ये तु हीयमाना निरायुधाः।
हीनिषेवा महात्मानः परानभिमुखा रणे॥ 11-26-15(65582)
छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः।
हतास्ते ब्रह्मसदनं गता वीराः सुवर्चसः॥ 11-26-16(65583)
ये त्वत्र निहता राजन्नन्तरायोधनं प्रति।
यथाकथञ्चित्पुरुषास्ते गता ह्युत्तरां गतिम्॥ 11-26-17(65584)
धृतराष्ट्र उवाच। 11-26-18x(5369)
केन ज्ञानबलेनैव पुत्र पश्यसि सिद्धवत्।
तन्मे वद महाबाहो श्रोतव्यं यदि वै मया॥ 11-26-18(65585)
युधिष्ठिर उवाच। 11-26-19x(5370)
निदेशाद्भवतः पूर्वं वने विचरता मया।
तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः॥ 11-26-19(65586)
देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम्।
दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा॥ 11-26-20(65587)
धृतराष्ट्र उवाच। 11-26-21x(5371)
ये त्वनाथा जनास्तात नाथवन्तश्च पाण़्डव।
कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम्॥ 11-26-21(65588)
युधिष्ठिर उवाच। 11-26-22x(5372)
न येषां शान्तिकर्तारो न च येऽत्राहिताग्नयः।
वयं च तेषां कुर्यामो बहुत्वात्तात कर्मणाम्॥ 11-26-22(65589)
यान्सुपर्णाश्च गुध्राश्च विकर्षन्ति ततस्ततः।
तेषां सङ्कर्षणा लोका भविष्यन्ति न संशयः॥ 11-26-23(65590)
वैशम्पायन उवाच। 11-26-24x(5373)
एवमुक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः।
आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम्॥ 11-26-24(65591)
विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम्।
इन्द्रसेनमुखान्भृत्यान्सूतांश्चैव सहस्रशः॥ 11-26-25(65592)
भवन्तः कारयन्त्वेषां प्रेतकार्याण्यशेषतः।
यथा नाथवतां किञ्चिच्छरीरं न विनश्यति॥ 11-26-26(65593)
शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः।
सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा॥ 11-26-27(65594)
चन्दनागुरुकाष्ठानि तथा कालीयकान्युत।
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च॥ 11-26-28(65595)
समाहृत्य महार्हाणि दारुणां चैव सञ्चयान्।
रथांश्च मृदितास्तत्र नानाप्रहरणानि च॥ 11-26-29(65596)
चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान्।
दाहयामासुरव्याग्राः शास्त्रदृष्टेन कर्मणा॥ 11-26-30(65597)
दुर्योधनं च राजानं भ्रातॄंश्चास्य कर्मणा॥
शल्यं शलं च राजानं भूरिश्रवसमेव च॥ 11-26-31(65598)
जयद्रथं च राजानमभिमन्युं च भारत।
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम्॥ 11-26-32(65599)
बृहद्वलं सोमदत्तं सृञ्जयं च महारथम्।
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा॥ 11-26-33(65600)
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम्।
युधामन्युं च विक्रान्तमुत्तमौजसमेव च॥ 11-26-34(65601)
कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम्।
अचलं वृषकं चैव भगदत्ते च पार्थिवम्॥ 11-26-35(65602)
कर्णं वैकर्तनं चैव सहपुत्रममर्षणम्।
केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान्॥ 11-26-36(65603)
घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च।
अलम्बुसं राक्षसेन्द्रं जलसन्धं च पार्थिवम्॥ 11-26-37(65604)
एतांश्चान्यांस्च सुबहून्पार्थिवांश्च सहस्रशः।
धृतधाराहुतैर्दीप्तैः पावकैः समदाहयन्। 11-26-38(65605)
पितृमेधाश्च केषाञ्चित्प्रावर्तन्त महात्मनाम्।
सामभिश्चाप्यगायन्त तेऽन्वशासत चापरैः॥ 11-26-39(65606)
साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः।
कश्मलं सर्वभूतानां निशायां समपद्यत॥ 11-26-40(65607)
हुताश्च तत्प्रदीप्ताश्च दीप्यमानाश्च पावकाः।
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः॥ 11-26-41(65608)
ये चाप्यनाथास्तत्रासन्नानादेशसमागताः।
तांश्च सर्वान्समानीय राशीकृत्वा सहस्रशः॥ 11-26-42(65609)
चित्वा दारुभिरव्यग्रैः प्रभूतैः स्नेहपाचितैः।
दाहयामास तान्सर्वान्विदुरो राजशासनात्॥ 11-26-43(65610)
कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः।
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत्॥ ॥ 11-26-44(65611)
इति श्रीमन्महाभारते स्त्रीपर्वणि श्राद्धपर्वणि षड्विंशोऽध्यायः॥ 26 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-26-2 दुष्कृतं दुराचरितं स्वकीयम्॥ 11-26-3 वैरप्रियं पुरुषं xxxxषम्॥ 11-264- द्वौ पूर्वापरदुःखद्वयरूपौ॥ 11-26-5 तपोरूपायार्थाय उत्पन्नं तपोर्थीयम्। त्वद्विधा वधार्थीयमेव गर्भं धत्ते। अन्या तु जयार्थीयं कीर्त्याद्यर्थीयमपीति भावः। तपोर्थिनं, वधार्थिनं इति क.पाठः॥ 11-26-17 ते गतास्तूत्तरान्कुरूनिति छ.पाठः। ते गतास्तूत्तमां गतिमिति ट.पाठः। ते गता ह्यधमां गतिमिति क.पाठः॥ 11-26-24 सुधर्माणं दुर्योधनपुरोहितम्॥ 11-26-43 स्नेहपाचितैः स्नेहसंयुक्तैः॥ 11-26-26 षड्विंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|